Download Shri Satyanarayan Vrat Katha Sanskrit PDF
You can download the Shri Satyanarayan Vrat Katha Sanskrit PDF for free using the direct download link given at the bottom of this article.
File name | Shri Satyanarayan Vrat Katha Sanskrit PDF |
No. of Pages | 99 |
File size | 445 KB |
Date Added | Feb 11, 2023 |
Category | Religion |
Language | Sanskrit |
Source/Credits | Drive Files |
Overview of Shri Satyanarayan Vrat Katha
Satyanarayan Vrat Katha is a Hindu devotional story associated with the worship of Lord Vishnu. The story is recited during the Satyanarayan Vrat, a Hindu religious observance in which devotees fast and offer prayers to Lord Vishnu for the blessings of wealth, prosperity, and good fortune.
According to the story, there was once a merchant named Prabhu who was very wealthy but did not have any children. He and his wife decided to perform the Satyanarayan Vrat in order to be blessed with a child. During the observance, they learned about the importance of truth and righteousness in one’s life and the benefits of following the path of dharma.
After completing the Vrat, Lord Vishnu appeared to the couple in a dream and granted their wish for a child. The couple soon had a son and lived a happy and prosperous life, always remembering the lessons they learned during the Satyanarayan Vrat.
The Satyanarayan Vrat Katha is considered to be a highly auspicious and powerful story, and is widely recited by Hindu devotees all over India and the world. The recitation of the story is an integral part of the Satyanarayan Vrat and is believed to bring blessings, prosperity, and good fortune to those who observe the Vrat with faith and devotion.
सत्यनारायण व्रत कथा प्रथमोऽध्यायः (संस्कृत में)
॥ प्रथमोऽध्यायः ॥
व्यास उवाच-
एकदा नैमिषारण्ये ऋषयः शौनकादयः ।
प्रपच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥1॥
ऋषय उवाच-
व्रतेन तपसा किं वा प्राप्यते वांछितं फलम् ।
तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥2॥
सूत उवाच-
नारदेनैव संपृष्टो भगवान्कमलापतिः ।
सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥3॥
एकदा नारदो योगी परानुग्रहकांक्षया ।
पर्यटन्विविधाँल्लोकान्मर्त्यलोक मुपागतः ॥4॥
ततो दृष्ट्वा जनान्सर्वान्नानाक्लेशसमन्वितान् ।
नानायोनि समुत्पान्नान् क्लिश्यमानान्स्वकर्मभिः ॥5॥
केनोपायेन चैतेषां दुःखनाशो भवेद्ध्रुवम्।
इति संचिन्त्य मनसा विष्णुलोकं गतस्तदा ॥6॥
तत्र नारायणंदेवं शुक्लवर्णचतुर्भुजम् ।
शंख चक्र गदा पद्म वनमाला विभूषितम् ॥7॥
नारद उवाच-
नमोवांगमनसातीत- रूपायानंतशक्तये ।
आदिमध्यांतहीनाय निर्गुणाय गुणात्मने ॥8॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्रंततो विष्णुर्नारदं प्रत्यभाषत् ॥9॥
श्रीभगवानुवाच-
किमर्थमागतोऽसि त्वं किंते मनसि वर्तते ।
कथायस्व महाभाग तत्सर्वं कथायमिते ॥10॥
नारद उवाच-
मर्त्यलोके जनाः सर्वे नाना क्लेशसमन्विताः ।
नाना योनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥11॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद् ।
श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥12॥
श्रीभगवानुवाच –
साधु पृष्टं त्वया वत्स लोकानुग्रहकांक्षया ।
यत्कृत्वा मुच्यते मोहत्तच्छृणुष्व वदामि ते ॥13॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ।
तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥14॥
सत्यनारायणस्यैवं व्रतं सम्यग्विधानतः ।
कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्युयात् ॥15॥
तच्छुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत्
नारद उवाच किं फलं किं विधानं च कृतं केनैव तद्व्रतम्॥16॥
तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं व्रतं हि तत्।
श्रीभगवानुवाच-
दु:ख-शोकादिशमनं धन-धान्यप्रवर्धनम्॥17॥
सौभाग्यसन्ततिकरं सर्वत्रविजयप्रदम् ।
यस्मिन्कस्मिन्दिने मर्त्यो भक्ति श्रद्धासमन्वितः ॥18॥
सत्यनारायणं देवं यजेच्चैव निशामुखे ।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥19॥
नैवेद्यं भक्तितो दद्यात्सपादं भक्ष्यमुत्तमम् ।
रंभाफलं घृतं क्षीरं गोधूममस्य च चूर्णकम् ॥20॥
अभावेशालिचूर्णं वा शर्करा वा गुडस्तथा ।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥21॥
विप्राय दक्षिणां दद्यात्कथां श्रुत्वाजनैः सह ।
ततश्चबन्धुमिः सार्धं विप्रांश्च प्रतिभोजयेत् ॥22॥
प्रसादं भक्षयभ्दक्त्या नृत्यगीतादिकं चरेत् ।
ततश्च स्वगृहं गच्छेत्सत्यनारायणं स्मरन् ॥23॥
एवंकृते मनुष्याणां वांछासिद्धिर्भवेद् ध्रुवम् ।
विशेषतः कलियुगे लघूपायऽस्ति भूतले ॥24॥
॥ इति श्रीस्कन्द पुराणे रेवाखण्डे ॥सत्यनारायण व्रत कथायां प्रथमोऽध्यायः समाप्तः ॥
सत्यनारायण व्रत कथा संस्कृत में द्वितीय अध्याय
॥ द्वितीयोऽध्याय: ॥
सूत उवाच-
अथाऽन्यत् सम्प्रवक्ष्यामि कृतं येन पुरा व्रतम् ।
कश्चित् काशीपुरे रम्ये ह्यासीद् विप्रोऽतिनिर्धन:॥1॥
क्षुत्तृड्भ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले ।
दु:खितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रिय:॥2॥
वृद्धब्राह्मण रूपस्तं पप्रच्छ द्विजमादरात् ।
किमर्थं भ्रमसे विप्र! महीं नित्यं सुदु: खित: ॥3॥
तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम ।
ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम्॥4॥
उपायं यदि जानासि कृपया कथय प्रभो ।
वृद्धब्राह्मण उवाच-
सत्यनारायणो विष्णुर्वछितार्थफलप्रद: ॥5॥
तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम् ।
यत्कृत्वा सर्वदु:खेभ्यो मुक्तो भवति मानव: ॥6॥
विधानं च व्रतस्यास्य विप्रायाऽऽभाष्य यत्नत: ।
सत्यनारायणोवृद्ध-स्तत्रौवान्तर धीयत ॥7॥
तद् व्रतं सङ्करिष्यामि यदुक्तं ब्राह्मणेन वै ।
इति सचिन्त्य विप्रोऽसौ रात्रौ निद्रां न लब्धवान् ॥8॥
तत: प्रात: समुत्थाय सत्यनारायणव्रतम् ।
करिष्य इति सङ्कल्प्य भिक्षार्थमगद् द्विज: ॥9॥
तस्मिन्नेव दिने विप्र: प्रचुरं द्रव्यमाप्तवान् ।
तेनैव बन्धुभि: साद्र्धं सत्यस्य व्रतमाचरत् ॥10॥
सर्वदु:खविनिर्मुक्त: सर्वसम्पत् समन्वित: ।
बभूव स द्विज-श्रेष्ठो व्रतास्यास्य प्रभावत: ॥11॥
तत: प्रभृतिकालं च मासि मासि व्रतं कृतम् ।
एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तम: ॥12॥
सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् ।
व्रतमस्य यदा विप्रा: पृथिव्यां सचरिष्यन्ति ॥13॥
तदैव सर्वदु:खं च मनुजस्य विनश्यति ।
एवं नारायणेनोक्तं नारदाय महात्मने ॥14॥
मया तत्कथितं विप्रा: किमन्यत् कथयामि व: ।
ऋषय ऊचु: –
तस्माद् विप्राच्छुरतं केन पृथिव्यां चरितं मुने ।
तत्सर्वं श्रोतुमिच्छाम:श्रद्धाऽस्माकं प्रजायते ॥15॥
सूत उवाच –
श्रृणुध्वं मुनय:सर्वे व्रतं येन कृतं भुवि ।
एकदा स द्विजवरो यथाविभवविस्तरै: ॥16॥
बन्धुभि: स्वजैन: सार्ध व्रतं कर्तुं समुद्यत: ।
एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत् ॥17॥
बहि: काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ ।
तृष्णया पीडितात्मा च दृष्ट्वा विप्रकृतं व्रतम् ॥18॥
प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया ।
कृते किं फलमाप्नोति विस्तराद् वद मे प्रभो ॥19॥
विप्र उवाच-
सत्यनाराणस्येदं व्रतं सर्वेप्सित- प्रदम् ।
तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥20॥
तस्मादेतत् ब्रतं ज्ञात्वा काष्ठक्रेतातिहर्षित: ।
पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ ॥21॥
सत्यनारायणं देवं मनसा इत्यचिन्तयत् ।
काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद्धनम् ॥22॥
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ।
इति सञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके ॥23॥
जगाम नगरे रम्ये धनिनां यत्र संस्थिति: ।
तद्दने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥24॥
तत: प्रसन्नहृदय: सुपक्वं कदलीफलम् ।
शर्करा-घृत-दुग्धं च गोधूमस्य च चूर्णकम् ॥25॥
कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ ।
ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥26॥
तद् व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् ।
इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥27॥
॥ तृतीयोध्याय: ॥
सूत उवाच –
पुनरग्रे प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमा: ।
पुरा चोल्कामुखो नाम नृपश्चासीन्महामति: ॥1॥
जितेन्द्रिय: सत्यवादी ययौ देवालयं प्रति ।
दिने दिने धनं दत्त्वा द्विजान् सन्तोषयत् सुधी: ॥2॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती ।
भद्रशीलानदीतीरे सत्यस्य व्रतमाचरत् ॥3॥
एतस्मिन् समये तत्र साधुरेक: समागत: ।
वाणिज्यार्थं बहुधनैरनेकै: परिपूरिताम् ॥4॥
नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति ।
दृष्ट्वा स व्रतिनं भूपं पप्रच्छ विनयान्वित: ॥5॥
साधुरुवाच-
किमिदं कुरुषे राजन् ! भक्तियुक्तेन चेतसा ।
प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥6॥
राजोवाच-
पूजनं क्रियते साधो ! विष्णोरतुलतेजस: ।
व्रतं च स्वजनै: सार्धं पुत्राद्यावाप्तिकाम्यया ॥7॥
भूपस्य वचनं श्रुत्वा साधु: प्रोवाच सादरम् ।
सर्वं कथय में राजन् ! करिष्येऽहं तवोदितम् ॥8॥
ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् ।
ततो निवृत्य वाणिज्यात् सानन्दो गृहमागत: ॥9॥
भार्यायै कथितं सर्वं व्रतं सन्ततिदायकम् ।
तदा व्रतं करिष्यामि यदा में सन्ततिर्भवेत् ॥10॥
इति लीलावती प्राह स्वपत्नीं साधुसत्तम: ।
एकस्मिन् दिवसे तस्य भार्या लीलावती सती ॥11॥
भर्तृयुक्ताऽऽनन्दचित्ताऽभवद्धर्मपरायणा ।
गर्भिणी साऽभवत्तस्य भार्या सत्यप्रसादत: ॥12॥
दशमे मासि वै तस्या: कन्यारत्नमजायत ।
दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥13॥
नाम्ना कलावती चेति तन्नामकरणं कृतम् ।
ततो लीलावती प्राह स्वामिनं मधुरं वच: ॥14॥
न करोषि किमर्थं वै पुरा सङ्कल्पितं व्रतम् ।
साधुरुवाच-
विवाहसमये त्वस्या: करिष्यामि व्रतं प्रिये ॥15॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति ।
तत: कलावती कन्या वृधपितृवेश्मनि ॥16॥
दृष्ट्वा कन्यां तत: साधुर्नगरे सखिभि: सह ।
मन्त्रायित्वा दुरतं दूतं प्रेषयामास धर्मवित् ॥17॥
विवाहार्थं च कन्याया वरं श्रेष्ठ विचारय ।
तेनाऽऽज्ञप्तश्च दूतोऽसौ काचनं नगरं ययौ ॥18॥
तस्मादेकं वणिक्पुत्रां समादायाऽऽगतो हि स: ।
दृष्ट्वा तु सुन्दरं बालं वणिक्पुत्रां गुणान्वितम् ॥19॥
ज्ञातिभि-र्बन्धुभि: सार्धं परितुष्टेन चेतसा ।
दत्तवान् साधुपुत्राय कन्यां विधि-विधानत: ॥20॥
ततो भाग्यवशात्तेन विस्मृतं व्रतमुत्तमम् ।
विवाहसमये तस्यास्तेन रुष्टोऽभवत् प्रभु: ॥21॥
तत: कालेन नियतो निजकर्मविशारद: ।
वाणिज्यार्थं तत: शीघ्रं जामातृसहितो वणिक् ॥22॥
रत्नसारपुरे रम्ये गत्वा सिन्धु समीपत: ।
वाणिज्यमकरोत् साधुर्जामात्रा श्रीमता सह ॥ 23॥
तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च ।
एतस्मिन्नेव काले तु सत्यनारायण: प्रभु: ॥24॥
भ्रष्टप्रतिज्ञमा-लोक्य शापं तस्मै प्रदत्तवान् ।
दारुणं कठिनं चास्य महद्दु:खं भविष्यिति ॥25॥
एकस्मिन् दिवसे राज्ञो धनमादाय तस्कर: ।
तत्रौव चागतश्चौरौ वणिजौ यत्र संस्थितौ ॥26॥
तत्पश्चाद् धावकान् दूतान् दृष्ट्वा भीतेन चेतसा ।
धनं संस्थाप्य तत्रौव स तु शिघ्रमलक्षित: ॥27॥
ततो दूता: समायाता यत्रास्ते सज्जनो वणिक् ।
द्दष्ट्वा नृपधनं तत्र बद्ध्वाऽ ऽनीतौ वणिक्सुतौ ॥28॥
हर्षेण धावमानाश्च ऊचुर्नृपसमीपत: ।
तस्करौ द्वौ समानीतौ विलोक्याऽऽज्ञापय प्रभो ॥29॥
राज्ञाऽऽज्ञप्तास्तत: शीघ्रं दृढं बद्ध्वा तु तावुभौ ।
स्थापितौ द्वौ महादुर्गे कारागारेऽविचारत: ॥30॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वच: ।
अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना ॥31॥
तच्छापाच्च तयोर्गेहे भार्या चैवातिदु:खिता ।
चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥32॥
आधिव्याधिसमायुक्ता क्षुत्पिपसातिदु:खिता ।
अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे ॥33॥
कलावती तु कन्यापि बभ्राम प्रतिवासरम् ।
एकस्मिन् दिवसे जाता क्षुधार्ता द्विजमन्दिरम् ॥34॥
गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च ।
उपविश्य कथां श्रुत्वा वरं सम्प्रार्थ्य वाछितम् ॥35॥
प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ।
माता लीलावती कन्यां कथयामास प्रेमत: ॥36॥
पुत्रि रात्रौ स्थिता कुत्रा किं ते मनसि वर्तते ।
कन्या कलावती प्राह मातरं प्रति सत्वरम् ॥37॥
द्विजालये व्रतं मातर्दृष्टं वाञ्छितसिद्धिदम् ।
तच्छ्रुत्वा कन्यका वाक्यं व्रतं कर्तु समुद्यता ॥38॥
सा तदा तु वणिग्भार्या सत्यनारायणस्य च ।
व्रतं चक्रे सैव साध्वी बन्धुभि: स्वजनै: सह ॥39॥
भर्तृ-जामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ।
इति दिव्यं वरं बब्रे सत्यदेवं पुन: पुन: ॥40॥
अपराधं च मे भर्तुर्जामातु: क्षन्तुमर्हसि ।
व्रतेनानेन तुष्टोऽसौ सत्यनारायण: पुन: ॥41॥
दर्शयामास स्वप्नं हि चन्द्रकेतुं नृपोत्तमम् ।
वन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥42॥
देयं धनं च तत्सर्वं गृहीतं यत्त्वयाऽधुना ।
नो चेत् त्वा नाशयिष्यामि सराज्यं-धन-पुत्रकम् ॥43॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभु: ।
तत: प्रभातसमये राजा च स्वजनै: सह ॥44॥
उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति ।
बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ ॥45॥
इति राज्ञो वच: श्रुत्वा मोचयित्वा महाजनौ ।
समानीय नृपस्याऽग्रे प्राहुस्ते विनयान्विता: ॥46॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्त्वा निगडबन्धनात् ।
ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ॥47॥
स्मरन्तौ पूर्ववृत्तान्तं नोचतुर्भयविद्दलौ ।
राजा वणिक्सुतौ वीक्ष्य वच: प्रोवाच सादरम् ॥48॥
दैवात् प्राप्तं महद्दु:खमिदानीं नास्ति वै भयम् ।
तदा निगडसन्त्यागं क्षौरकर्माऽद्यकारयत् ॥49॥
वस्त्लङ्कारकं दत्त्वा परितोष्य नृपश्च तौ ।
पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोच्चयद् भृशम् ॥50॥
पुराऽऽनीतं तु यद् द्रव्यं द्विगुणीकृत्य दत्तवान् ।
प्रोवाच तौ ततो राजा गच्छ साधो ! निजाश्रमम् ॥51॥
राजानं प्रणिपत्याऽऽह गन्तव्यं त्वत्प्रसादत: ।
इत्युक्त्वा तौ महावैश्यौ जग्मतु: स्वगृहं प्रति ॥52॥
॥ चतुर्थोऽध्यायः ॥
सूत उवाच यात्रां तु कृतवान् साधुर्मंगलायनपूर्विकाम् ।
ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥1॥
कियद्दूरं गते साधौ सत्यनारायणः प्रभुः ।
जिज्ञासां कृतवान् साधौ किमस्ति तव नौस्थितम् ॥2॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै ।
कथं पृच्छसि भो दंडिन् मुद्रां नेतुं किमच्छसि ॥3॥
लता पत्रादिकं चैव वर्तते तरणौ मम।
निष्ठुरं च वचः श्रुत्वा सत्यं भवतु ते वचः॥4॥
एवमुक्त्वा गतः शीघ्रं दंडी तस्य समीपतः ।
कियद् दूरं ततो गत्वा स्थितः सिन्धुसमीपतः ॥5॥
गते दंडिनि साधुश्च कृतनित्यक्रियस्तदा ।
उत्थितां तरणिं दृष्ट्वा विस्मयं परमं ययौ ॥6॥
दृष्ट्वा लतादिकं चैव मूर्च्छितोन्यप तद्भुवि ।
लब्धसंज्ञोवणिक्पुत्रस्ततनिश्चन्तान्वितोऽभवत् ॥7॥
तदा तु दुहितः कान्तो वचनंचेदमब्रवीत् ।
किमर्थं क्रियते शोकःशापो दत्तश्च दंडिना ॥8॥
शक्यते तेन सर्वं हि कर्तुं चात्र न संशयः ।
अतस्तच्छरणंयामो वाञ्छितार्थो भविष्यति ॥9॥
जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा ।
दृष्ट्वा च दंडिनं भक्त्या नत्वा प्रोवाज सादरम् ॥10॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधो ।
एवं पुनः पुनर्नत्वा महाशोकाकुलोऽभवत् ॥11॥
प्रोवाच वचनं दंडी विलपन्तंविलोक्य च ।
मा रोदीः श्रृणु मद्वाक्यं मम पूजाबहिर्मुखः ॥12॥
ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः ।
तच्छुत्वाभगवद्वाक्यं स्तुति कर्तुं समुद्यतः ॥13॥
साधु उवाच त्वश्वायामोहिताः सर्वे ब्राह्माद्यास्त्रिदिवौकसः ।
न जानंति गुणन् रूपं तवाश्चर्यमिदं प्रभो ॥14॥
मूढोऽहंत्वां कथं जाने मोहितस्तव मायया ।
प्रसीद पूजयिष्यामि यथा विभवविस्तरैः ॥15॥
पुरा वित्तं च तत्सर्वं त्राहि माम् शरणागतम् ।
श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दनः ॥16॥
वरं च वांछितं दत्त्वा तत्रैवांतर्दधे हरिः ।
ततो नावं समारुह्य दृष्ट्वा वित्तप्रपूरिताम् ॥17॥
कृपया सत्यदेवस्य सफलं वांछितं मम ।
इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथाविधिः ॥18॥
हर्षेण चाभवत्पूर्णः सत्यदेवप्रसादतः ।
नावं संयोज्ययत्नेन स्वदेशगमनं कृतम् ॥19॥
साधुर्जामातरं प्राह पश्य रत्नपुरीं मम ।
दूतं च प्रेषयामास निजवित्तस्य रक्षकम् ॥20॥
ततोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च ।
प्रोवाच वांछितं वाक्यं नत्वा बद्धांजलिस्तदा ॥21॥
निकटे नरस्यैव जामात्रा सहितो वणिक् ।
आगतो बन्धुवर्गेश्च वित्तैश्च बहुभिर्युतः ॥22॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती ।
सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ॥23॥
व्रजामि शीघ्रमागच्छ साधुसंदर्शनाय च ।
इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च ॥24॥
प्रसादं च परित्यज्य गता सापि पतिं प्रति ।
तेन रुष्टः सत्यदेवो भर्तारं तरणिं तथा ॥25॥
संहृत्य च धनैः सार्धं जले तस्यावमज्जयत् ।
ततः कलावती कन्या न विलोक्य निजं पतिम् ॥26॥
शोकेन महता तत्र रुदती चापतद् भुवि ।
दृष्ट्वा तथा निधां नावं कन्या च बहुदुःखिताम् ॥27॥
भीतेन मनसा साधुः किमाश्चर्य मिदं भवेत् ।
चिंत्यमानाश्चते सर्वेबभूवुस्तरणिवाहकाः ॥28॥
ततो लीलावती कन्यां दृष्ट्वा-सा विह्वलाभवत् ।
विललापातिदुःखेन भर्तारं चेदमब्रवीत ॥29॥
इदानीं नौकयासार्धं कथंसोऽभूदलक्षितः ।
न जाने कस्य देवस्य हेलया चैव सा हृता ॥30॥
सत्यदेवस्य माहात्म्यं ज्ञातु वा केन शक्यते ।
इत्युक्त्वा विललापैव ततश्च स्वजनैःसह ॥31॥
ततो लीलावती कन्यां क्रौडे कृत्वा रुरोदह ।
ततः कलावती कन्या नष्टे स्वामिनिदुःखिता ॥32॥
गृहीत्वापादुके तस्यानुगतुंचमनोदधे ।
कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनोवणिक् ॥33॥
अतिशोकेनसंतप्तश्चिन्तयामास धर्मवित् ।
हृतं वा सत्यदेवेन भ्रांतोऽहं सत्यमायया ॥34॥
सत्यपूजां करिष्यामि यथाविभवविस्तरैः ।
इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥35॥
नत्वा च दण्डवद् भूमौसत्यदेवं पुनःपुनः ।
ततस्तुष्टः सत्यदेवो दीनानां परिपालकः ॥36॥
जगाद वचनंचैनं कृपया भक्तवत्सलः ।
त्यक्त्वा प्रसादं ते कन्यापतिं द्रष्टुं समागता ॥37॥
अतोऽदृष्टोऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् ।
गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयति चेत्पुनः ॥38॥
लब्धभर्त्रीसुता साधो भविष्यति न संशयः ।
कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात ॥39॥
क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा ।
सा पश्चात् पुनरागम्य ददर्श सुजनं पतिम् ॥40॥
ततःकलावती कन्या जगाद पितरं प्रति ।
इदानीं च गृहं याहि विलम्बं कुरुषेकथम् ॥41॥
तच्छुत्वा कन्यकावाक्यं संतुष्टोऽभूद्वणिक्सुतः ।
पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥42॥
धनैर्बंधुगणैः सार्द्धं जगाम निजमन्दिरम् ।
पौर्णमास्यां च संक्रान्तौ कृतवान्सत्यपूजनम् ॥43॥
इहलोके सुखं भुक्त्वा चान्ते सत्यपरं ययौ ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥44।
सत्यनारायण व्रत कथा संस्कृत पंचम अध्याय
॥ पञ्चमोध्याय: ॥
सूत उवाच-अथान्यत् संप्रवक्ष्यामि श्रृणध्वं मुनिसत्तमा: ।
आसीत् तुङ्गध्वजो राजा प्रजापालनतत्पर:॥1॥
प्रसादं सत्यदेवस्य त्यक्त्त्वा दु:खमवाप स: ।
एकदा स वनं गत्वा हत्वा बहुविधान् पशून्॥2॥
आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम् ।
गोपा: कुर्वन्ति सन्तुष्टा भक्तियुक्ता: सबन्धवा:॥3॥
राजा दृष्ट्वा तु दर्पेण न गतो न ननाम स: ।
ततो गोपगणा: सर्वे प्रसादं नृपसन्निधौ ॥4॥
संस्थाप्य पुनरागत्य भुक्त्वा सर्वे यथेप्सितम् ।
तत: प्रसादं संत्यज्य राजा दु:खमवाप स: ॥5॥
तस्य पुत्राशतं नष्टं धनधान्यादिकं च यत् ।
सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥6॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनन् ।
मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥7॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणै: सह ।
भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृप: ॥8॥
सत्यदेवप्रसादेन धनपुत्राऽन्वितोऽभवत् ।
इह लोके सुखं भुक्त्वा पश्चात् सत्यपुरं ययौ ॥9॥
य इदं कुरुते सत्यव्रतं परम दुर्लभम् ।
श्रृणोति च कथां पुण्यां भक्तियुक्तां फलप्रदाम् ॥10॥
धनधान्यादिकं तस्य भवेत् सत्यप्रसादत: ।
दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात् ॥11॥
भीतो भयात् प्रमुच्येत सत्यमेव न संशय: ।
ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरं ब्रजेत् ॥12॥
इति व: कथितं विप्रा: सत्यनारायणव्रतम् ।
यत्कृत्वा सर्वदु:खेभ्यो मुक्तो भवति मानव: ॥13॥
विशेषत: कलियुगे सत्यपूजा फलप्रदा ।
केचित्कालं वदिष्यन्ति सत्यमीशं तमेव च ॥14॥
सत्यनारायणं केचित् सत्यदेवं तथापरे ।
नाना रूपधरो भूत्वा सर्वेषामीप्सितप्रद: ॥15॥
भविष्यति कलौ सत्यव्रतरूपी सनातन: ।
श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥16॥
श्रृणोति य इमां नित्यं कथा परमदुर्लभाम् ।
तस्य नश्यन्ति पापानि सत्यदेव प्रसादत: ॥17॥
व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च ।
तेषां त्वपरजन्मानि कथयामि मुनीश्वरा: ॥18॥
शतानन्दो महा-प्राज्ञ: सुदामा ब्राह्मणोऽभवत् ।
तस्मिन् जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥19॥
काष्ठभारवहो भिल्लो गुहराजो बभूव ह ।
तस्मिन् जन्मनि श्रीरामसेवया मोक्षमाप्तवान् ॥20॥
उल्कामुखो महाराजो नृपो दशरथो-ऽभवत् ।
श्रीरङ्नाथं सम्पूज्य श्रीवैकुण्ठं तदाऽगमत् ॥21॥
धार्मिक: सत्यसन्धश्च साधुर्मोरध्वजोऽभवत् ।
देहार्ध क्रकचेश्छित्वा मोक्षमवापह ॥२२॥
तुङ्गध्वजो महाराजो स्वायम्भरभवत्किल ।
सर्वान् धर्मान् कृत्वा श्री वकुण्ठतदागमत् ॥२३॥